Ashta Vimsathi Vishnu Nama Stotram Lyrics in Hindi

अष्टाविंशति विष्णु नाम स्तोत्र

मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।

गोविन्दं पुण्डरीकाक्षं माधवं दधुसूदनम् ॥१॥

पद्मनाभं सहस्राक्षं वनमालं हलायुधम्

गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥२॥

विश्वरूपं वासुदेवं रामं नारायणं हरिम्।

दामोदरं श्रीधरं च वेदांगं गरुडध्वजम्॥३॥

अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ।

गवां कोटि प्रदानस्य अश्वमेधशतस्य च ॥४॥

कन्यादानसहस्राणां फलं प्राप्नोति मानवः ।

अमायां वा पौर्णमास्यां एकादश्यां तथैव च ॥५॥

संध्याकाले स्मरं नित्यं प्रातःकाले तथैव च ।

मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥६॥

Leave a Comment